________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
दशम
उद्देशकः
१४९४ (A)
www.kobatirth.org
चतुर्धा आत्मना सञ्चेत्यन्ते - क्रियन्ते इत्यात्मसञ्चेत्याः । तद्यथा - घट्टनतः १ प्रपतनतः २ स्तम्भनतः ३ श्लेष्मतश्च४ । तत्र घट्टनतो यथा चक्षुषि रजः प्रविष्टं तेन च चक्षुर्दुः खयितुमारब्धम्, अथवा स्वयमेव चक्षुषि गलके वा किञ्चित् खीलप्रभृति समुत्थितं घट्टयति । प्रपत यथा मन्दप्रयत्नेन चङ्क्रम्यमाणः प्रपतति ततो दुःखायते२ । स्तम्भनतो यथा तावदुपविष्ट आस्ते यावत् पादः सुप्तः स्तब्धो जातः ३ । श्लेष्मणतो यथा पादं तावदाकुञ्चय स्थितो यावत् तत्र वातेन लग्नः। अथवा नृत्यं शिक्षयामीति किञ्चिदङ्गमतिशयेन नामितं तच्च तत्रैव लग्नमिति४ । ते पुनः आत्मसञ्चेतनीया व्युत्सृष्टद्वारे निपतन्ति, न इह । 'ते उप्पन्ने सम्मं सहति खम तितिक्खइ अहियासेइत्ति' चत्वार्यप्येकार्थिकानि पदानि ॥ ३८२४ ॥
तत्र सम्यक्सहनमाह
मण-वयण- कायजोगेहिं तिहि ऊ दिव्वमादिए तिन्नि । सम्म अहियासेई, तत्थ उ सुहाए दिट्टंतो ॥ ३८२५ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
त्रिभिर्मनो-वाक्काययोगैः प्रत्येकं दिव्यादीन् त्रीन् उपसर्गान् प्रत्येकं चतुर्भेदान् सम्यग् अध्यास्ते सहते । तत्र सहनं द्विधा द्रव्यतो भावतश्च । तत्र द्रव्यसहने स्नुषाया दृष्टान्तः ॥
For Private And Personal
गाथा |३८२५-३८३० उपसर्गस
* दृष्टान्तादिः १४९४ (A)
*