SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशकः १६९९ (A) www.kobatirth.org जातिस्थविरस्य काल-स्वभावानुमत आहारो दातव्यः । उपधिर्यावता संस्तरति तावत्प्रमाणः । शय्या वसतिः, सा ऋतुक्षमा दातव्या । संस्तारको मृदुक: । क्षेत्रसङ्क्रमे क्षेत्रान्तरं सङ्क्रामयितव्ये तस्योपधिमन्ये वहन्ति । पानीयेन चानुकम्प्यते । उक्ता जातिस्थविरस्यानुकम्पा १। श्रुतस्थविरस्य पूजामाह - किइ इत्यादि । कृतिच्छन्दोऽनुवृत्तिभ्यां स्थविरं श्रुतस्थविर - मनुवर्त्तयन्ति । किमुक्तं भवति ? श्रुतस्थविरे कृतिकर्म वन्दनकं दातव्यम्, छन्दश्च तस्यानुवर्त्तनीयम् ॥ ४६८० ॥ तथा Acharya Shri Kailashsagarsuri Gyanmandir उट्ठाण त्ति आगतस्याभ्युत्थानं कर्त्तव्यम्, आसनसम्प्रदानम् । आदिशब्दात् पादमार्जनादिपरिग्रहः । तथा योग्याहारोपानयनम् । समक्षं परोक्षं वा प्रशंसना गुणकीर्त्तनम् । तथा तत्समक्षं नीचशय्यायामवस्थातव्यम् निर्देशवर्त्तित्वम् आज्ञावर्त्तित्वमेव श्रुतं श्रुतस्थविरं पूजयेत् ॥ ४५८१ ॥ तथा सूत्र १५-१६ गाथा ४५७८-४५८४ * स्थविरभूमि पर्यायस्थविरस्य अगुरोरपि अप्रव्राजकस्याप्यवाचनाचार्यस्यापि आगच्छत उत्थानं कुर्वन्ति शैक्षभूम्यौ वन्दनं च क्षमाश्रमणतः, दण्डकस्य च ग्रहणमिति ॥ ४५८२ ॥ १६९९ (A) सूत्रम् - ततो सेहभूमीतो पन्नत्ताओ । तं जहा - सत्त राइंदिया चउमासिया छम्मासिया For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy