________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
तत्र वसतीत्येवंशीलो अन्तेवासी ॥ ४५७६ ॥
सम्प्रति भङ्गभावनार्थमाह
जह चेव उ आयरिया, अंतेवासी वि होंति एमेव । दशम उद्देशकः अंते य वसति जम्हा, अंतेवासी ततो होइ ॥ ४५७७॥ १६९७ (B)|M
यथा चैव आचार्या उद्देशनादिभेदतश्चतुर्द्धा भवन्ति एवमेव अन्तेवासिनोऽपि । यस्मादाचार्यस्यान्ते वसति तस्माद् भवत्याचार्य[ भेदवेत्] चतुर्धाऽन्तेवासी। इयमत्र भावनायो यस्यान्ते उद्देशनमेवाधिकृत्य वसति वर्तते स तं प्रति उद्देशनान्तेवासी १। यस्य त्वन्ते वाचनामेवाधिकृत्य वसति स तस्य वाचनान्तेवासी २ । यस्तूद्देशनं वाचनां चाधिकृत्य यस्यान्ते वसति स तं प्रति उभयान्तेवासी ३। यस्य त्वन्ते नोद्देशनं नापि वाचनामधिकृत्याऽन्ते वसति किन्तु धर्मश्रवणमधिकृत्य स तं प्रत्युभयविकलो धर्मान्तेवासी ४। एवं च त्रयोऽन्तेवासिनः। तद्यथा- धर्मान्तेवासी १ उद्देशनान्तेवासी २ वाचनान्तेवासी च ३। तत्र कश्चित् त्रिभिरपि | प्रकारैः समन्वितो भवति १ कश्चित् द्वाभ्याम् २ कश्चिदेकैकेन ३ ॥ ४५७७॥
सूत्र १३-१४
गाथा ४५७४ -
४५७७ उद्देशनाचार्य| वाचनाचायौँ
१६९७ (B)
For Private And Personal