________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् दशम उद्देशकः
१६९४ (A)|M
न धर्मः, तीर्थकरोपदेशेन वर्तमानत्वात् । एष हि भगवतां तीर्थकृतां उपदेश:- सर्वस्यापि पात्रस्याविशेषेण दातव्यम्:१। यस्तु गणसंस्थितौ कृतायां न कस्यापि परगणसत्कस्य ददाति | स द्वितीयः २। परगणसत्कस्य अपात्रस्य ददाति तं प्राप्य तृतीयो भङ्ग तेन गणसंस्थितेस्तीर्थकराज्ञाखण्डनतो धर्मस्य च त्यक्तत्वात् ३ ॥ ४५६२॥ ४५६४॥
यस्त्वन्यथा व्यवच्छेदं पश्यन् 'मेधावी प्रवचनोपग्रहकरो भविष्यति' इत्यादिगुणसमन्वितं । प्रातीच्छिकमुपलभ्य तस्य स्वयमेव निजं दिग्बन्धं कृत्वा सातिशयमन्यद्वाऽध्ययनं ददाति | तमपि, आस्तां प्रथमभङ्गवर्त्तिनमित्यपिशब्दार्थः, उभयं गणसंस्थितिं धर्मं चाऽवलम्बमानं पूजयामः । एष चतुर्थः पुरुषः ४ ॥ ४५६५॥
सूत्र ११-१२ सूत्रम्- चत्तारि पुरिसजाया पन्नत्ता । तं जहा-पियधम्मे नामं एगे नो दढधम्मे१ | गाथा दढधम्मे नाम एगे नो पियधम्मे २ एगे पियधम्मे वि दढधम्मे वि ३ एगे नो पियधम्मे नो ||५६५-४५७३
प्रियधर्मदढधम्मे ४॥११॥
दृढधर्मअस्य सम्बन्धमाह
स्वरूपम् धम्मो य न जहियव्वो, गणसंठितिमित्थ नो पसंसामो ।
|१६९४ (A) जस्स पियो सो धम्मो, सो न जहति तस्सिमो जोगो ॥ ४५६६॥
For Private And Personal