SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १६९२ (B)| कोऽपि राजा महामिथ्यादृष्टिः नास्तिकवादी वावदूकः पण्डिताभिमानी दर्शनिभिः सह | वादं दत्त्वा तद्बुद्धिमुपजीव्य दर्शिनिनो हीलयति । अन्यदा साधूनुपद्रावयितुं प्रवृत्तः 'मया सह वादो दीयताम्।' तत्रैकः साधुः वादलब्धिसम्पन्नः खेचरलब्धिमान् । मा भूत् सङ्घस्यापभ्राजना इति गृहिलिङ्गमन्यलिङ्ग वा कृत्वा राज्ञः समीपे वादेनोपस्थितः । प्रवृत्तो द्वयोरपि वादः। तत्र राजा अल्पशक्तिकत्वात् स्वपक्षं निर्वाहयितुमशक्नुवन् हीलनां तस्य कृतवान् । ततः स वाददर्पस्फेटनाय तस्य राज्ञो मूर्धानं पादेनाऽऽक्रम्याऽऽकाशेन वायुरिव पलायित्वा स्वस्थानं गतः ॥ ४५६० ॥ एतदेवाहतस्स पंडियमाणिस्स, बुद्धिलस्स दुरप्पणो । मुद्धं पाएण अकम्म, वादी वाउरिवाऽऽगतो ॥ ४५६१॥ तस्य नास्तिकवादिनो राज्ञः पण्डितमानिनो बुद्धिलस्य बुद्धिं लाति-उपजीवति इति | बुद्धिलः तस्य दुरात्मनो मुर्भानं पादेनाऽऽक्रम्य वादी वायुरिव पलायित्वा स्वस्थानमागतः । एष प्रथमः पुरुषः १ ॥ ४५६१ ॥ सूत्र १० गाथा ४५५९-४५६५ | गणमर्यादा १६९२ (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy