________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashpagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् दशम
उद्देशकः १६९२ (A)
सम्प्रति रूप-धर्मव्याख्यानार्थमाहरूवं होइ सलिंगं, धम्मो नाणादियं तियं होति । रूवेण य धम्मेण य, जढमजढे भंग चत्तारि ॥ ४५५९॥
रूपं नाम भवति स्वलिङ्गं रजोहरणादि। धर्मो ज्ञानादिकं त्रिकम् । रूपेण च [धर्मेण च]त्यक्तेऽत्यक्ते च भङ्गाश्चत्वारः। ते च सूत्रपाठसिद्धा एव ॥ ४५५९॥
तेषां विषयविभागमाहरूवजढमण्णलिंगे१, धम्मजढे खलु तहा सलिंगम्मिर।
सूत्र १० उभयजढो गिहिलिंगे३, दुहतो सहिओ सलिंगेण४ ॥ ४५६०॥
४५५९-४५६५ रूपं त्यक्तं न धर्मः स रूपत्यक्तः, सुखादिदर्शनात् त्यक्तस्य परनिपातः, सोऽन्यलिङ्गे :
गणमर्यादा द्रष्टव्यः । इयमत्र भावना- भावतो ज्ञानादित्रिकसमन्वितः कारणवशेनान्यलिङ्गं गृहिलिङ्गं वा ||१६९२ (A) यः प्रतिपद्यते। अत्र निदर्शनं यथा
गाथा
For Private And Personal