SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १६९१ एवम् उक्तेन प्रकारेण गणशोधिकराश्चत्वारः पुरुषा भवन्ति विज्ञेयाः। कथं पुनः सः | प्रथमस्तृतीयो वा गणस्य शोधिं कुर्यात् ? सूरिराह- एभिः वक्ष्यमाणैः कारणैः ओजस्वित्वादिभिः ॥ ४५५६ ॥ तान्येवाहएगदव्वेगघरए, णेगाणाऽऽलोयणाए संका उ। ओयस्सि सम्मओ संथुओ य तं दुप्पवेसं च ॥ ४५५७॥ एकस्मिन् गृहेऽनेकैः सङ्घाटकैरेकं द्रव्यं लब्धम् । तद्यथा-एकेन सङ्घाटकेन एकस्मिन् गृहे पूपलिका लब्धाः, अन्येनापि सङ्घाटकेन तस्मिन्नेव गृहे तादृश्य एव पूपलिका लब्धाः, || सूत्र ७-८ एवं तृतीयेन चतुर्थेन पञ्चमेन वा लब्धाः । तैः सन्निवृत्त्य गुरुसमीपमागत्याऽऽलोचितम् दर्शिताश्च ४५५४-४५५८ पूपलिकाः, ततो जाता सर्वेषां शङ्का-नूनमेता उद्गमाशुद्धा भवेयुः । एवं शङ्किते गत्वा तद्गृहं गणशोभाप्रष्टव्यम्- किं युष्माकं गृहेऽद्य सङ्घडि:? उत लाभनकं समागतम्? अथवा प्राघूर्णकाः करादिः समागताः? यदि वा साधूनामर्थाय कृताः, क्रीता वा? तत्र च गृहे भिक्षावेलां मुक्त्वा शेषकालं १६९१ (A) न कोऽपि प्रवेशं लभते, तत्र साधुरेक ओजस्वी गृहमानुषाणां संस्तुत: परिचितः, संस्तुततया च तस्मिन् गृहे सम्मतः अनिवारितप्रसरस्तद् दुष्प्रवेशं गृहं प्रविशति, प्रविश्य च निःशङ्क गाथा . For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy