________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
१६८९ (B)
www.kobatirth.org
गणसंगहकरे नो माणकरे ॥ ६ ॥
अत्र सम्बन्धमाह -
सो पुण गणस्स अट्ठो, संगहो तत्थ संगहो दुविहो ।
दव्वे भावे तियगा, उ दोन्नि आहार - नाणादी ॥ ४५५२ ॥
अनन्तरसूत्रे गणार्थ उक्तः स पुनर्गणस्यार्थः सङ्ग्रहस्ततः सङ्ग्रहकरप्रतिपादनार्थमिदं सूत्रम् । तत्र सङ्ग्रहो द्विधा । द्रव्यतो भावतश्च । तत्र द्रव्ये भावे च द्वौ त्रिकौ द्रष्टव्यौ । तद्यथा - आहारादित्रिकं द्रव्ये, ज्ञानादित्रिकं भावे ॥ ४५५२ ॥
तदेवं सङ्ग्रहं व्याख्याय सङ्ग्रहकरत्वयोजनामाह -
आहारोवहि-सिज्जाइएहि दव्वम्मि संगहं कुणति ।
सीस पडिच्छे वाए, भावेण तरंति जाहे गुरू ॥ ४५५३ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
द्रव्यतः सङ्ग्रहं करोति आहारोपधि-शय्यादिभिः अत्राऽऽदिशब्द आहारादीनां स्वगतानेकभेदसूचकः । भावेन यदा गुरवः शक्नुवन्ति तदा शिष्यान् प्रतीच्छकान् वा
For Private And Personal
सूत्र ६-७ गाथा १४५४७-४५५३ गणार्थगणसंग्रहकराः
१६८९ (B)