________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
१६८७ (B)
www.kobatirth.org
एमेवाऽऽयरियस्स वि, कोई अट्ठ करेइ न य माणं १ । अट्ठो उ उच्चमाणो, वेयावच्चं दसविहं तु ॥ ४५४४॥
अहवा
अब्भुट्ठाणं आसण, कितिकम्मं मत्तए य संथारे । उववाया य बहुविहा, इच्चादि हवंति अट्ठा उ ॥ ४५४५ ॥
Acharya Shri Kailashpagarsuri Gyanmandir
एवमेव शकपुरुषदृष्टान्तगतेन प्रकारेण कोऽप्याचार्यस्यार्थं करोति, न मानम् । अर्थो वक्ष्यमाणसूत्रेणोच्यमानः । कः पुनः सः ? इत्याह- दशविधं वैयावृत्यम् ॥ ४५४४ ॥ अथवा
समागच्छतः अभ्युत्थानम् आसनप्रदानम् । कृतिकर्म विश्रामणा । यथाकालमुच्चारमात्रकस्य प्रश्रवणमात्रकस्य श्लेष्ममात्रकस्य चोपनयः, संस्तारकस्य करणम् । उपपाताश्च समीपभवनलक्षणाः बहुविधाः तत्तत्प्रयोजनभेदतोऽनेकप्रकारा इत्यादयोऽर्था भवन्ति ॥ ४५४४ ॥ बितितो माणकरो ऊ, को पुण माणो हवेज्ज तस्स ? इमो । अब्भुवाणमत्थण, होइ पसंसा य एमादी २ ॥ ४५४६ ॥
For Private And Personal
***
गाथा ४५३८-४५४६ चत्वारः पुरुषजाता:
१६८७ (B)