________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहारसूत्रम् दशम
उद्देशकः १४९२ (B)
ततस्तस्मादवधारणीयम्। अक्षरयोजना त्वेवम्-अट्टनो नाम मल्ल उज्जयनीवास्तव्यः सोपारे पट्टने वृद्धतया युद्धे पराजितः। तेनाऽन्यः फलहीमल्लो नाम मल्लो मार्गितः। स सोपारके मात्सिकमल्लेन सह युद्धं दत्तवान्। तत्र फलहीमल्ले निरुक्तं-निरवशेष परिकर्म क्रियते। इतरस्तु मात्सिकमलो गर्वाध्माततया शरीरपीडां गूहयन् न किमपि परिकर्म कारितवान्। ततः परिकर्माऽकारणतस्ततीये दिने मारितः । तेन परिकर्माकारणतो यस्त्यक्तो देहः स द्रव्यतस्त्यक्तः ॥ ३८१९॥
भावत्यक्तमाह
बंधिज्ज व रुंभेज व, कोई व हणेज अहव मारेज।
गाथा वारेइ न सो भयवं, चियत्तदेहो अपडिबद्धो ॥ ३८२० ॥ दारं ३।।
३८१८-३८२४
उपसर्गप्रतिमाप्रतिपन्नो भगवान् शरीरेऽप्यप्रतिबद्धो यदि कोऽपि बधीयात्, अथवा रुन्ध्यात्, स्वरूपम् यदि वा हन्याद् मारयेद्वा, तथापि तं न निवारयति एष भावतस्त्यक्तदेहः ३॥ ३८२० ॥ ४|१४९२ (B) सम्प्रति 'जे केइ उवसग्गा' इति व्याख्यानार्थमाह
For Private And Personal