________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
www.kobatirth.org
एकेन्द्रियस्य अनन्तकायिकवर्ण्यस्य पृथिव्यप्तेजो- वायु-प्रत्येकवनस्पतीनामित्यर्थः घट्टने १ अनागाढे तापने २ आगाढे च ३ निर्विकृतिकादिकम्, यावदायामाम्लम् ' अपद्रावणे' जीविताद् व्यपरोपणे ४ । इयमत्र भावना - पृथिवीकायिकाऽप्कायिक-तेजस्कायिक-वायुकायिकप्रत्येकवनस्पतीनां घट्टने निर्विकृतिकम् १, अनागाढपरितापने पूर्वार्द्धम् २, आगाढपरितापने एकाशनम् ३, अपद्रावणे आयामाम्लमिति ४ ॥ ४५१९ ॥
दशम
उद्देशकः
१६८१ (B)
Acharya Shri Kailashsagarsuri Gyanmandir
विगलिंदिय घट्टण १ तावणाऽणगाढ गाढे २ । ३ । तहेव उद्दवणे ४ | पुरिमड्डादि कमेणं, नायव्वं जाव खमणं तु ॥ ४५२० ॥ पंचिंदिय घट्टण १ तावणाऽणगाढ गाढे २ । ३ तहेव उद्दवणे ४ । एक्कासण१ आयामं२, खवणं३ तह पंच कल्लाणं४ ॥४५२१ ॥
[ जी. भा. ६८४-५ ]
विकलेन्द्रियाणां द्वीन्द्रियप्रभृतीनां घट्टने१ तापने अनागाढे गाढे च २-३ तथा अपद्रावणे ४ पूर्वार्द्धादिक्रमेण ज्ञातव्यं यावत् क्षपणम् । किमुक्तं भवति ? – घट्टने पूर्वार्द्धम्,
For Private And Personal
गाथा
४५१४-४५२१ प्रायश्चित्तम्
१६८१ (B)