________________
Shri Mahavir Jain Aradhan Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
www.kobatirth.org
श्री व्यवहार
सूत्रम्
दशम
उद्देशकः १६७९ (B)
केवलिनो मनःपर्यायज्ञानिनोऽवधिज्ञानजिनाश्चतुर्दशपूर्विणो दशपूर्विणो नवपूर्विणश्च, एते षड् धीरा आगमव्यवहारिणः । ये पुनः कल्प-व्यवहारधारिणो धीरास्ते सूत्रेण कल्पव्यवहारगतेन व्यवहरन्ति। ये पुनः छेदश्रुतस्याऽर्थधरास्ते आज्ञया धारणया च व्यवहरन्ति छेदश्रुतस्य च सूत्रमर्थश्चाद्यापि धरति विद्यते ततो व्यवहारचतुष्कस्य चतुर्दशपूर्विणि व्यवच्छेद इति यद् भणितं तद् मिथ्या ॥ ४५१०-४५११-४५१२॥
अन्यच्चतित्थोगाली एत्थं, वत्तव्वा होइ आणुपुव्वीए । जो जस्स उ अंगस्सा, वोच्छेदो जहिं विणिद्दिटो ॥ ४५१३॥ तेषां मिथ्यावादित्वप्रकटनाय यस्याङ्गोपाङ्गस्य अन्यस्य वा यत्र व्यवच्छेदो विनिर्दिष्टः सा तीर्थोगालिरत्र आनुपूर्व्या क्रमेण वक्तव्या येन विशेषतरस्तेषां प्रत्यय उपजायते ॥ ४५१३॥
܀܀܀܀܀܀܀܀
गाथा ४४५०६-४५१३
|जीतव्यवहारः
|१६७९ (B)
For Private And Personal