________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् दशम उद्देशकः
१४९१ (A)
भत्तट्ठिओ व खमओ, इयरदिणे तासि होइ पट्ठवतो। चरिमे असद्धवं पुण, होइ अभत्तट्ठमुज्जवणं ॥ ३८१४॥ तयो: यवमध्य-वज्रमध्यप्रतिमयोः प्रस्थापकः आरम्भक: इतरस्मिन् आरम्भकदिवसात् पाश्चात्ये दिने भक्तार्थी वा भवति क्षपको वा, चरमे चरमदिवसे पुनर्भक्तविषये
अश्रद्धावान् श्रद्धामपि न करोति। एतद् यवमध्यचन्द्रप्रतिमामधिकृत्योक्तं वेदितव्यम्। उद्यापनं | पुनर्द्वयोरपि प्रतिमयोरभक्तार्थमवसेयम् ॥ ३८१४ ॥
संघयणे परियाए, सुत्ते अत्थे य जो भवे बलितो। सो पडिमं पडिवज्जइ, जवमझं वइरमझं च ॥ ३८१५॥ संहनने आद्यत्रयस्यान्यतमस्मिन् । पर्याये जन्मतो जघन्यत एकोनत्रिंशति वर्षेषु उत्कर्षतो देशोनायां पूर्वकोट्याम्, प्रव्रज्यापर्यायेण जघन्यतो विंशतौ वर्षेषु उत्कर्षतो देशोनायां पूर्वकोट्याम्। * सूत्रमर्थश्च जघन्यतो नवमस्य पूर्वस्य तृतीयमाचारवस्तु उत्कर्षतः किञ्चिन्यूनानि दश पूर्वाणि।
एवं संहनने पर्याये सति यः सूत्रे अर्थे च भवति बलिकः बलीयान् सः प्रतिमां यवमध्यां
गाथा ३८१३-३८१७
प्रतिमाधारणविधिः
१४९१ (A)
For Private And Personal