________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
दशम
उद्देश :
१६७० (A)
www.kobatirth.org
स्वदेश गमनेन गुरुसकाशं गत्वा तेषां गुरूणां सर्वं तथा निवेदयति यथा आनुपूर्व्या परिपाट्या गतम् अवधारितम् ॥ ४४६९ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
सो ववहारविहिण्णू, अणुमज्जित्ता सुतोवएसेणं ।
सीसस्स देइ आणं, तस्स इमं देहि पच्छित्तं ॥ ४४७० ॥ [ जी. भा. ६३८]
सः आलोचनाचार्यो व्यवहारविधिज्ञः कल्प-व्यवहारात्मके छेदसूत्रे अनुमज्य पौर्वापर्यपर्यालोचनेन श्रुततात्पर्ये निषण्णो भूत्वा श्रुतोपदेशेन रागद्वेषतोऽन्यथा तस्य पूर्वप्रेषितस्य स्वशिष्यस्याऽऽज्ञां ददाति । यथा - ' गत्वा तस्येदं प्रायश्चित्तं देहि' ॥ ४४७० ॥ किं तत् ? इत्याह
पढमस्स य कज्जस्स य, दसविहमालोयणं निसामित्ता । नक्खत्ते भे पीडा, सुक्के मासं तवं कुणसुं ॥ ४४७१ ॥ [जी.भा.६३९]
प्रथमस्य कार्यस्य दर्पलक्षणस्य सम्बन्धिनीं दर्पादिपदभेदतः दशविधां दशप्रकाराम्
१. जीतकल्प भाष्ये इतोऽग्रे ६४० -३ गाथा चतुष्कं विद्यते ॥
For Private And Personal
गाथा ४४७०-४४८० सङ्केतेन प्रायश्चित्तदानम्
१६७० (A)