________________
Shri Mahavir Jain Aradhega Kendra
www.kobatirth.org
Acharya Shry Kailashpagarsuri Gyanmandir
व्यवहारसूत्रम् दशम उद्देशकः
१६६९ (B)
४३२ भङ्गानां भवन्तीति भावः । अकल्पे दर्प दशाष्टादशका भवन्ति, अशीतं शतं १८० भङ्गानां भवतीति भावः। एतां कल्पे दर्षे च सर्वसमासेन सङ्ख्यां जानीहि ॥ ४४६७ ॥
सोऊण तस्स पडिसेवणं तु आलोयणाकमविहिं च । आगम पुरिसजायं, परियाग बलं च खेत्तं च ॥ ४४६८॥ [जी.भा.६३६] |
श्रुत्वा तस्य आलोचकस्य प्रतिसेवनाम्, आलोचनाक्रमविधिं च आलोचनाक्रमपरिपार्टी चाऽवधार्य, तथा तस्य यावानागमोऽस्ति तावन्तमागमम्, तथा पुरुषजातं अष्टमादिभिर्भावितमभावितं वा, पर्यायं गृहस्थपर्यायो यावानासीद् यावांश्च तस्य व्रतपर्यायः तावन्तमुभयपर्यायम्, बलं शारीरिकं तस्य, तथा यादृशं तत् क्षेत्रम् । एतत् सर्वमालोचकाचार्यकथनतः स्वतो दर्शनतश्चावधार्य स्वदेशं गच्छति ॥ ४४६८ ॥ तथा चाह
आहारेउं सव्वं, सो गंतूणं पुणो गुरुसगासं । तेसि निवेदेइ तहा, जहाणुपुब्बिं गतं सव्वं ॥ ४४६९॥ [तुला-जी.भा.६३७] सः आलोचनाचार्याय प्रेषितः सर्वम् अनन्तरोदितम् आ-समन्ताद् धारयित्वा पुनरपि
गाथा ४४६१-४४६९ स्थापनाभङ्गादिः
|१६६९ (B)
For Private And Personal