________________
Shri Mahavir Jain Aradhawa Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् दशम उद्देशकः
१६६२ (B)|
XX.XXX.
किं पुनस्तदालोचयति? । सूरिराह-अतीचारम् । स पुनरतीचारः अयं वक्ष्यमाण: व्रतषट्कादिकः व्रतषट्कादिविषयः खल्वानुपूर्व्या ज्ञातव्यः ॥ ४४३९ ॥ तमेव दर्शयति
वयछक्क ६ कायछक्कं ६, अकप्पो१ गिहिभायणं २। पलियंक३ निसज्जा४ याऽसिणाणं५सोभवजणं६ ॥ ४४४०॥ [जी.भा.५८७]
व्रतषट्कं प्राणातिपातनिवृत्त्यादिरात्रिभोजनविरमणपर्यन्तम्। कायषट्कं पृथिव्यादि। अकल्प्यः पिण्डादिकः । गृहिभाजनं कांस्यपात्र्यादि पल्यङ्कः प्रतीतः । निषद्या गोचरप्रविष्टस्य निषदनम्। अस्नानं देशतः सर्वतो वा स्नानस्य वर्जनम्। [शोभावर्जनम्] विभूषापरित्यागः । एतद् विधेयतया प्रतिषेध्यतया वा यद् यथोक्तं नाऽऽचरितं तद् आलोचयति ॥४४४० ॥
तं पुण होज्जा सेविय दप्पेणं अहव होज कप्पेणं । दप्पेण दसविहं तू, इणमो वोच्छं समासेणं ॥ ४४४१॥ [जी.भा.५८८]
तत् पुनः विरुद्धं सेवितं दर्पण अथवा कल्पेन। तत्र यद् दर्पण सेवितं तदिदं वक्ष्यमाणं | दशविधम् । तदेव समासेन वक्ष्ये ॥४४४१ ॥
܀܀܀܀܀܀܀
गाथा ४४३७-४४४५ अतिचारालोचनादिः
१६६२ (B)
For Private And Personal