________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
एवं परीक्ष्य योग्यं ज्ञात्वा तं प्रेषयति सन्दिशति 'च व्रज तस्य साधोरालोचयितुकामस्य समीपे, गत्वा तस्य शोधिम् आलोचनां श्रुत्वा पुनरत्राऽऽगच्छ' ||४४३५ ॥
अह सो गतो उ तहियं, तस्स सगासम्मि सो करे सोहिं । दुग-तिग- चउव्विसुद्धं, तिविहे काले विगडभावो ॥ ४४३६ ॥
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
१६६१ (B)
Acharya Shri Kailashsagarsuri Gyanmandir
[जी.भा.५८३]
अथ प्रेषणानन्तरं स यत्रालोचयितुकामो विद्यते तत्र गतः । ततस्तस्याऽऽगतस्य समीपे आलोचयितुकामः प्रशस्तेषु द्रव्यादिषु शोधिम् आलोचनां करोति । कथम् ? इत्याह-द्विकंदर्शनातिचारं चारित्रातिचारं चारमालोचयतीत्यर्थः । दर्शनग्रहणे ज्ञानग्रहणमपीति ज्ञानातिचारं चेत्यपि द्रष्टव्यम् । चारित्रातीचारालोचनाऽपि च द्विभेदा- मूलगुणातिचारविषया उत्तरगुणातिचारविषया च, तां करोति । पुनस्त्रिकम् - आहारोपधि-शय्याभेदत एकैकां त्रिप्रकाराम् । चतुर्विशुद्धां प्रशस्तद्रव्य-क्षेत्र-काल-भावोपेताम् । त्रिविधे काले अतीते प्रत्युत्पन्ने च यत् सेवितम्, अनागते `च यत् सेविष्ये इत्यध्यवसितम् । विकटभावः प्रकटभावोऽप्रतिकुञ्चन इत्यर्थः ॥४४३६॥ सम्प्रति द्विकादिपदजातस्य व्याख्यानं किञ्चिदन्यथा किञ्चित् तदेव दर्शयति
For Private And Personal
गाथा ४४३०-४४३६ शिष्यपरीक्षा
१६६१ (B)