________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
व्यवहारसूत्रम्
प्रत्यनीकतया कोऽपि से तस्य- पादपोपगतस्य कीलकैर्लोहमयैश्चर्म विधून्य तदनन्तरं श्री || तं मधुघृतम्रक्षितदेहं कृत्वा पिपीलिकानां दद्यात् तथापि स सम्यक् सहेत॥ ४४०१ ॥
तत्र सहने दृष्टान्तमाहदशम
जह सो चिलायपुत्तो, वोसट्ठनिसट्ठ-चत्तदेहाओ । उद्देशकः सोणियगंधेण पिवीलियाहि चालंकओ धीरो ॥ ४४०२॥ १६५३ (A)
[जी.भा.५३३,नि.भा.३९६९] यथा स चिलातीपुत्रो निसृष्टम् अतिशयेन व्युत्सृष्ट-त्यक्तदेहः शोणितगन्धेन पिपीलिकाभिः चालङ्कृतः चालिनीकृतो धीरो न मनागपि ध्यानाच्चलितवान् । एवं सर्वैरपि सोढव्यम्॥ ४४०२॥
अन्यं दृष्टान्तमाहजह सो कालायवेसितो वि मोग्गल्लसेलसिहरम्मि । खइओ विउव्विऊणं, देवेण सियालरूवेणं ॥ ४४०३॥
[जी.भा.५३४,नि.भा.३९७०] | १. चालणिव्व कओ-ला.॥
गाथा ४३९८-४४०४ उपसर्गसहने दृष्टान्ताः
|१६५३ (A)
For Private And Personal