________________
Shri Mahavir Jain Araghaqa Kendra
www.kobatirth.org
Acharya Shri Kailashọagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् दशम उद्देशकः
१६५१ (A)
द्वे श्रोत्रे, द्वे नेत्रे, आदिशब्दानासापुटद्वय-जिह्वा-स्पर्श-मनसां परिग्रहः, एतानि नवकं |* नवकसङ्ख्यानि सुप्तानि भवन्ति। देशीभाषा अष्टादश, ताः शास्त्रप्रसिद्धाः। रतिविशेषः एकोनविंशतितमः । तत्र कौशलमेकविंशतिविधं शास्त्रप्रसिद्धम् । एवमादिभिर्गुणैर्युक्तया। तथा रूपयौवन-विलास-लावण्यकलितया ॥ ४३९२॥ ४३९३॥
चउकण्णम्मि रहस्से रागेणं रायदिन्नपसराए । तिमि-मगरेहि व उदही, न खोभिओ जो मणो मुणिणो ॥ ४३९४॥ |* जाहे पराजिया सा, न समत्था सीलखंडणं काउं । नेऊण सेलसिहरं, तो से सिल मुंचए उवरिं ॥ ४३९५॥
[जी.भा.५५१-२,नि.भा.३९६१-२] चतुष्कर्णे रहस्ये रागेण अनुरागेण राजदत्तप्रसरया गृह्यते, गृहीत्वा चानेकप्रकारं संक्षोभ आपद्यते, तत्र यन्मुनेर्मनस्तत् तया तिमि-मकरैरिवोदधिर्न क्षोभितम्। ततो यदा सा पराजिता न शीलखण्डनं कर्तुं समर्था तदा रोषात् शैलशिखरं नीत्वा से तस्योपरि शिलां मुञ्चति | ॥ ४३९४ ।। ४३९५ ॥
गाथा ४३९८-४४०४ उपसर्गसहने दृष्टान्ताः
१६५१ (A)
For Private And Personal