SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shyi Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १६४६ (A) __ स्थानम् उर्ध्वस्थानम्, निषदनम् उपवेशनम्, त्वग्वर्त्तनं शयनम्, एतानि इत्वरकाणि स यथासमाधिः स्वयमेव करोति न तु परतः कारयति । तथा दिव्यादीनुपसर्गान् क्षुदादिपरीषहांश्च सम्यग् अध्यास्ते सहते । तथाहि-चतुर्विधाहारप्रत्याख्यानान्नास्य पानकमपि भवति नाप्यपवादतश्चरमाहारदानमिति ॥ ४३७३ ॥ तथा___ संहननेन त्रयाणामाद्यानामन्यतमेन धृत्या च युक्तः। तथा श्रुतेन सूत्रतो यस्य पूर्वाणि नव दश वा केवलानि अङ्गानि स इङ्गिनीमरणं प्रतिपद्यते ॥ गतमिङ्गिनीमरणम् अधुना पादपोपगमनमुच्यते___तदपि प्रव्रज्यादितीर्थाव्यवच्छेदपर्यन्तं कृत्वा पञ्च तपः-सूत्रादि तोलयित्वा च प्रतिपद्यते। तच्च नियमतो निष्प्रतिकर्म निश्चलं च। तथाहि- ऊर्द्धवस्थानेन उपवेशनेन पार्श्वेण वाऽन्येन वा येन स्थानेन स्थितः स यावज्जीवमपि तेन स्थानेन तिष्ठति, न पुनरन्यत् स्थानं तस्य कर्तुं | स्वप्रयोगेण कल्पते। तच्च द्विधा-निर्हारिममनिर्हारिमं च। तत्र निर्हारिमं नाम यद् ग्रामादीनामन्तः । प्रतिपद्यते, ततो हि मृतस्य सतस्तस्य शरीरं निष्काशनीयं भवति। अनिर्हारिमं नाम यद् | ग्रामादीनां बहिः प्रतिपद्यते ॥४३७४ ॥ गाथा ४३७५-४३८० पादपोपगनम् १६४६ (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy