________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
+
श्री व्यवहारसूत्रम् दशम
उद्देशकः १६४३ (A)
वालऽच्छभल्लविसविसूइका य आयंक सन्निकोसलए । ऊसास गद्ध रज्जू, ओमऽसिवेऽभिघाय संबंधो ॥ ४३६२॥ [जी.भा.५००] व्याल: गोनसादिः अच्छभल्लः ऋक्षः विषं विसूचिका च प्रतीता, आतङ्कः क्षयादिव्याधिः संज्ञिकोशलके कोशल श्रावके प्रत्यनीके सजाते, उच्छ्वासनिरोधः, गृध्रपृष्ठकरणम् रज्ज्वा उल्लम्बनम्, अवमे दुर्भिक्षे अशिवे घातः विद्युदादिभिरभिहतः सम्बद्धं वातेन हस्त-पादादिजातम्। एतैर्हेतुभिर्व्याघातिमं बालमरणमपि भवति ॥ ४३६२ ॥
कथम्? इत्याहवालेण गोणसादिण, खदितो होजाहि, सडिउमारद्धो। कन्नोट्ठ-नासिगादी, विभंगिया वऽच्छभल्लेहिं ॥ ४३६३॥ [जी.भा.५०१] व्यालेन गोनसादिना स खादितो भवेत्, ततः शटितुमारब्धवान् बालमरणमपि कुर्यात्।। यदि वा अच्छभल्लेन ऋक्षेण कर्णौष्ठ-नासिकादीनि विभग्नानि छिन्नानि भवेयुः ततो बालमरणमाश्रयते ॥ ४३६३ ॥
विषादिहेतूनाह
गाथा ४३५९-४३६६
बालमरणादिः
१६४३ (A)
For Private And Personal