________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
दशम
उद्देश :
१६४२ (B)
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सपरक्कमे जो उगमो, नियमा अपरक्कमम्मि सो चेव ।
नवरं पुण नाणत्तं खीणे जंघाबले गच्छे ॥ ४३६० ।। दारं २४ । [ जी.भा.४९७]
सपराक्रमे भक्तप्रत्याख्याने यो गमोऽभिहितः स एवाऽपराक्रमेऽपि नियमाद्वेदितव्यः, नवरं पुनरिदं नानात्वमपराक्रमं क्षीणे जङ्घाबले भवति स्वगच्छे च । तथाहि - क्षीणे जङ्घाबले वृद्धत्वेन मर्त्तुकामः स्वगच्छे भक्तं प्रत्याचष्टे २४ ॥ ४३६० ॥
सम्प्रति व्याघातिममाह
एमेव आणुपुव्वी, रोगाऽऽयंकेहिं नवरि अभिभूतो ।
बालमरणं पिय सिया, मरेज्ज उ इमेहिं हेऊहिं ॥ ४३६१ ॥ [ जी. भा. ४९९]
गाथा
| ४३५९-४३६६
बाल
एवमेव अनेनैव प्रकारेण आनुपूर्व्या क्रमेण व्याघातिमं प्रतिपत्तव्यम् । नवरं रोगातङ्कैरभिभूतस्सन् तत् प्रतिपद्यते, एतावान् विशेषः । यदि पुनः एभिः वक्ष्यमाणैर्हेतुभिम्रियेत मरणादिः तदा तद् व्याघातिमं बालमरणमपि स्यात् ॥ ४३६१ ॥
| १६४२ (B)
तानेव हेतूनाह—
For Private And Personal