________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
१६४१ (B)
www.kobatirth.org
को गीयाण उवाओ ? संलेहगओ ठविज्जए अन्नो
उच्छहते जइ वऽन्नो, इयरे उ गिलाणपरिकम्मं ॥ ४३५७ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
वसभो वा वि ठविज्जइ, अन्नस्सासतिए तम्मि संथारे । कालगतो त्तिय काउं, संझाकालम्मि नीणंति ॥ ४३५८ ॥ [ जी. भा. ४९४-५]
भक्तप्रत्याख्याता द्विधा एकोऽनेकश्च । ते द्विविधाः ज्ञाता अज्ञाताश्च । ज्ञातो नाम दण्डिकादीनां प्राकृतप्रजानां च विदितस्वरूपः, यथा यावज्जीवमेष भक्तं प्रत्याख्यातवान् । तद्विपरीतोऽज्ञातः । तत्र यदि ज्ञातो भक्तपरिज्ञां न निस्तरति तदा को गीतार्थानामुपायः प्रयोक्तव्यः ? उच्यतेयदि अन्यो द्वितीयः संलेखं कुर्वन् विद्यते तदा स जवनिकान्तरितः स्थाप्यते, यो वा अन्यः उत्सहते स स्थाप्यते, इतरस्य तु भक्तपरिज्ञाव्याघातवतो ग्लानपरिकर्म क्रियते इति । अथान्यः संलेखगतो न विद्यते नाप्यन्यः कश्चिदुत्सहते तदाऽन्यस्य असति अभावे 'वृषभः स्थाप्यते तस्मिन् पूर्वभक्तप्रत्याख्यायकसत्के संस्तारे । ततो जवनिकान्तरिततया लोकवन्दापनादि यतनया स करोति । यस्तु भक्तपरिज्ञाविलोपवान् सोऽल्पसागारिकमेकान्ते ध्रियते, धृतस्य च ग्लानपरिकर्म तावत् क्रियते यावत् प्रथमालिकां करोति, ततो जनमध्ये 'रात्रौ स कालगतः इति प्रकाश्य
For Private And Personal
गाथा
४३५३-४३५८ चिह्नकरणादिः
१६४१ (B)