________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
१६४१ (A)
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शरीरे उपकरणे च अचिह्नकरणे चिह्ने अकृते अयमन्यो दोषः, स कालगतो रत्नाधिकः स्यात्, तं चाऽकृतचिह्नं भद्राकृतिं परिष्ठापितं दृष्ट्वा केचिद् गृहस्थाश्चिन्तयन्ति केनाप्येष गृहस्थो बलात्कारेण मारयित्वा त्यक्तः, ततस्तैर्दण्डिकस्य कथितम्, सोऽपि दण्डिकः श्रुत्वा कैश्चिन्मारितो भवेदिति तेषां मार्गणगवेषणार्थं तत्प्रत्यासन्नग्रामाणां पञ्चानां दशानां वा घातनं दण्डनं वा कुर्यात् २३ ॥ ४३५५ ॥
सम्प्रति 'अन्तर्बहिर्व्याघाते' इति द्वारमाह
ण पगासिज्ज लहुत्तं, परीसहउदएण होज्ज वाघातो । उप्पन्ने वाघाए, जो गीयत्थाण य उवातो ॥ ४३५६ ॥
[ जी. भा. ४९३, नि. भा. ३९३४]
स भक्तप्रत्याख्याता गृहिणां न प्रकाश्यते, यतः कदाचित् परीषहस्योदयेन प्रत्याख्यानस्य व्याघातः विलोपः स्यात् । ततः समस्तस्यापि प्रवचनस्य लघुतोपजायते । उत्पन्ने च व्याघाते यो गीतार्थानामुपायः स प्रयोक्तव्य इति वाक्यशेषः ॥ ४३५६ ॥
For Private And Personal
गाथा ४३५३-४३५८ चिह्नकरणादिः
१६४१ (A)