________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
|
व्यवहार
सूत्रम्
दशम
उद्देशकः १६४० (A)
अथ येन शरीरमुज्झितं तस्य भोजने कः सङ्गः येन तद् याचते ? उच्यते- न स जीविताशानिमित्तमाहारं याचते किन्त्वसमाधिमसहमानः, तत एतदस्माभिर्ज्ञात्वा 'मा तस्यासमाधिना समाधेाघातो भूयाद्' इति समाधिसन्धानहेतोः सः आहारः अन्तके अन्तसमये दीयते॥ ४३५२॥
केन विधिना? इत्यत आहसुद्धं एसित्तु ठाविंति, हाणीते वा दिणे दिणे। पुव्वुत्ताए उ जयणाए तं तु गोवेंति अन्नहिं ॥ ४३५३॥ दारं २२।।
[जी.भा.४९०,नि.भा.३९३१]
शुद्धम् उद्गमादिदोषरहितमेषित्वा गवेषयित्वा स्थापयन्ति। हानौ वा शुद्धालाभे दिने दिने पूर्वोक्तया पञ्चकहानिलक्षणया यतनया गवेषयित्वा तदन्यत्र गोपयन्ति। गोपयित्वा प्रतिदिनं संशुद्धस्य यतनया वा अलाभे पर्युषितमपि क्रियते, ततो यथावसरं प्रयच्छन्ति २२॥ ४३५३॥
गाथा ४४३५३-४३५८
चिह्नक
चिह्नकरणादिः ४|१६४० (A)
For Private And Personal