________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
दशम
उद्देशकः
१६३९ (B)
www.kobatirth.org
1
यथा प्रथमश्लोकोक्ता लावकादयः सर्वे यथासङ्ख्यं दात्रादिभिर्द्वितीयगाथोक्तैर्विना न साधकाः । तथाहि — लावको दात्रेण विना लवितुं न शक्नोति । प्लावको नावा विना नद्यादिकं लङ्घयितुम्। सङ्ग्रामे योध आयुधैर्विना शत्रुपराजयम् । पथिकः पन्थानं गन्तुं उपानद्भ्यां विना । आतुरः प्रगुणीभवितुमौषधैर्विना । शिक्षको वादित्रकर्मादि वादित्रादिभिरुपकरणैर्विना ॥ ४३४९ ॥ ४३५० ॥
Acharya Shri Kailashsagarsuri Gyanmandir
एवाऽऽहारेण विणा समाहिकामो न साहए समाहिं ।
तम्हा समाहिऊ, दायव्वो तस्स आहारो ॥ ४३५१ ॥ [ जी. भा.४८७]
एवं समाधिकाम आहारेण विना समाधिं न साधयति । तस्मात् समाधिहेतोस्तस्याऽऽहारो दातव्यः ॥ ४३५१ ॥
अत्राऽऽक्षेप - परिहारावाह
सरीरमुज्झियं जेण को संगो तस्स भोयणे ? समाहिसंधणाहेउं दिज्जए सो उ अंतए ॥ ४३५२ ॥
For Private And Personal
[जी.भा. ४८९,नि.भा.३९३०]
गाथा ४३४४-४३५२ यतनायां
* दृष्टान्तादिः
१६३९ (B)