________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
स
श्री
Xि
व्यवहारसूत्रम् दशम
उद्देशकः १६३८ (A)
क्षिप्त इत्यर्थः । ततश्चेडकस्य एकः सारथिः कोणिकवधाय शरस्य कनकप्रहरणविशेषरूपस्य ग्रहं कृतवान् ॥ ४३४३॥ एतदेव स्पष्टयति
महसिलकंटे तहियं, वटुंते कोणिओ उ रहिएण । रुक्खग्गविलग्गेणं, पट्टे पहओ उ कणगेणं ॥ ४३४४॥ उप्फिडिउं सो कणगो, कवयावरणम्मि तो ततो पडितो । तो तस्स कोणिएणं, सीसं छिन्नं खुरप्पेणं ॥ ४३४५॥ ततो महाशिलाकण्टके सङ्ग्रामे वर्तमाने कोणिकश्चेटकस्य रथिकेन निरन्तरशरमोक्षणत आच्छादितः, परं ते सर्वेऽपि शराः कठिनप्रतिरूपके अभ्यट्याभ्यट्य बहिः पतन्ति । ततो वृक्षमारुह्य तद्विलग्नेन कोणिक: पृष्ठे कनकेन प्रहरणविशेषेण प्रहतः, सोऽपि कवचावरणे कठिनप्रतिरूपके उत्फिट्य ततः कवचावरणात् परे पतितः। ततः कोणिकेन तं तथाध्यवसायं वृक्षविलग्नमवलोक्य कोपावेशात् तस्य शिरः क्षुरप्रेण छिन्नम् ॥ ४३४४ ॥ ४३४५ ॥
गाथा ४३४४-४३५२
यतनायां दृष्टान्तादिः
१६३८ (A)
१. गाथापञ्चक ४३४४-८ स्थाने निशीथभाष्ये ३९२८-९ गाथाद्वयम्॥
For Private And Personal