________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
१६३७ (A)
www.kobatirth.org
गीयत्थमगीयत्थं, सारेउं मतिविबोहणं काउं ।
तो पडिबोहिय छट्टे, पढमे पगयं सिया बिइए ॥ ४३४१ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
[ जी. भा. ४७७, नि. भा. ३९२४]
स भक्तप्रत्याख्यानी कदाचित् प्रान्तया देवतयाधिष्ठितोऽवभाषेत, ततः परिज्ञाननिमित्तं स्मरणं कारयितव्यः । स भण्यते- कस्त्वम् ? गीतार्थोऽगीतार्थो वा ?, अथवा दिवसो वर्त्तते रात्रिर्वा? तत्र यदि समस्तमवितथं ब्रूते तदा ज्ञायते न प्रान्तदेवतयाऽधिष्ठितः, किन्तु परीषहत्याजितो याचते । तदेवं गीतार्थमगीतार्थं चाऽऽत्मानं स्मारयित्वा स्मरणोत्पादनेन यथावस्थितमतिविबोधनं कृत्वा ततः प्रतिबोध्य षष्ठे रात्रिभोजने प्रथमे अशने प्रकृतं स्यात् द्वितीये पानके । किमुक्तं भवति ? अशने पानके च याचिते तस्य भक्त- पानात्मकः कवचभूत आहारो दातव्यः ॥ ४३४१ ॥
आह- किं कारणं प्रत्याख्याप्य पुनराहारो दीयते ? तत आह
For Private And Personal
गाथा |४३३७-४३४३ असमाधौ
यतना
१६३७ (A)