________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहारसूत्रम् दशम
उद्देशकः १६३५ (B)
सव्वातो अज्जातो, सव्वे वि य पढमसंघयणवजा । सव्वे य देसविरया, पच्चक्खाणेण उ मरंति ॥ ४३३५॥
[जी.भा.४९१,नि.भा.३९१८] सर्वा अप्यार्यिकाः सर्वेऽपि च प्रथमसंहननवर्जाः सर्वेऽपि च देशविरताः प्रत्याख्यानेन भक्तपरिज्ञारूपेण इङ्गिनीरूपेण वा म्रियन्ते ॥ ४३३५ ॥
सव्वसुहप्पभवाओ, जीवियसाराओ सव्वजणयातो । आहाराओ रयणं, न विजइ हु उत्तमं लोए ॥ ४३३६ ॥
[जी.भा.४७२,नि.भा.३९१९] सर्वस्य सुखस्य प्रभवः-उत्पादकारणं सर्वसुखप्रभवस्तस्मात्, जीवितसाराद् "अन्नं वै प्राणाः"[ ]इति वचनात्, सर्वस्य जगतो जनकस्तस्मात् आहारमन्तरेण कस्याप्युत्पत्तेरभावात्, इत्थम्भूतादाहारादन्यदुत्तमं रत्नं लोके न विद्यते, किन्त्वाहार एव सर्वोत्तमं रत्नम् ॥ ४३३६ ॥ रत्नत्वमेव भावयति
गाथा |४२८-४३३६
उपदेशः
१६३५ (B)
For Private And Personal