________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार-1
सूत्रम्
दशम उद्देशकः १६३५ (A)
सव्वाहि वि लद्धीहिं, सव्वे वि परीसहे पराइत्ता । सव्वे वि य तित्थयरा, पातोवगया उ सिद्धिगया ॥ ४३३३॥
[जी.भा.४६८-९,नि.भा.३९१५-६] सर्वे सर्वज्ञाः सर्वासु कर्मभूमिषु सर्वस्यामद्धायाम् अतीताऽनागतरूपायां सर्वगुरवः सर्वमहिताः सर्वे मेरावभिषिक्ता: सर्वाभि: आमर्पोषध्यादिभिर्लब्धिभिरुपेताः सर्वेऽपि च तीर्थकराः तीर्थप्रवर्तनशीलाः सर्वान् परीषहान् पराजित्य पादपोपगताः सिद्धिगताः॥ ४३३२॥ ४३३३॥
अवसेसा अणगारा, तीय-पडिपुण्णऽणागया सव्वे । केई पादोवगया, पच्चक्खाणिंगिणी केई ॥ ४३३४॥
गाथा
४४२८-४३३६ [जी.भा.४७०,नि.भा.३९१७] |
उपदेशः [अवशेषाः] सर्वेऽपि च अनगारा अतीताः प्रत्युत्पन्ना अनागताश्च केचित्
|१६३५ (A) प्रथमसंहननोपेताः पादपोपगताः, केचित् प्रत्याख्यानं भक्तपरिज्ञां केचिदिङ्गिनी प्रतिपन्नाः ॥ ४३३४॥
For Private And Personal