________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
दशम उद्देशकः १६३४ (B)
यदि तावद् धृतिरेव केवला धणियं- अत्यर्थं सहाया येषां ते धृतिधनितसहायका धीराः श्वापदाकुलेषु गिरिकन्दरेषु विषमेषु कटकेषु विषमेषु च दुर्गेषु उत्तमार्थं साधयन्ति ॥ ४३२९॥ किं पुनरनगारसहायकेन परलोकिकेन परलोकार्थिना अन्योन्यसङ्ग्रहबलेन शक्यः साधयितुमुत्तमार्थ इति ॥ ४३३०॥ जिणवयणमप्पमेयं, महुरं कण्णाहुतिं सुणेताणं । सक्को हु साहुमझे, संसारमहोयहिं तरिठं ॥ ४३३१॥
[जी.भा.४६७,नि.भा.३९१४] जिनवचनमप्रमेयम्, मधुरं ललितपदविन्यासात्मकत्वात्, कर्णयोराहुतिमिव कर्णाहुतिं पावकस्य घृताहुतिमिव, कर्णयोराप्यायकमिति भावः । शृण्वतां साधुमध्ये स्थितानाम् अक्लेशेन शक्यः संसारमहोदधिस्तरीतुमिति ॥ ४३३१॥
सव्वे सव्वद्धाए, सव्वन्नू सव्वकम्मभूमीसु । सव्वगुरु सव्वमहिया, सव्वे मेरुम्मि अहिसित्ता ॥ ४३३२॥
गाथा ४२८-४३३६ उपदेशः
१६३४ (B)
For Private And Personal