________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् दशम उद्देशकः
१६३३ (B)|
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
[यः] कायेन शरीरेणोपचितो बलवान् से तस्य अन्तःप्रदेशाद् बहिर्निष्क्रामणं बहि:प्रदेशादन्तःप्रवेशनं करोति । चशब्दादन्यच्चोद्वर्तनाऽपवर्तनादिकम्। सञ्चार्यमाणोऽपि सोऽवष्टम्भतः सञ्चार्यते । अथ तथापि सः 'न विसहते' न समाधि प्राप्नोति तदा तं तथा अविषहमाणं संस्तारगतं सञ्चारयन्ति ॥ ४३२६ ॥
संथारो मओ तस्स, समाहिहेउं तु होइ कायव्वो । तह वि य अविसहमाणे, समाहिहेउं उदाहरणं ॥ ४३२७॥
[तुला-जी.भा.४६३,नि.भा.३९०९] | समाधिहेतोः समाधेरुत्पादनाय तस्य संस्तारको मृदुको भवति कर्त्तव्यो यावत् पल्यङ्के तूल्या आलिङ्गनपट्टिकायाश्च समास्तरणमिति। तथापि अविषहमाणे समाधिमलभमाने समाधिहेतोः समाधिसम्पादनाय इदं वक्ष्यमाणम् उदाहरणम् उदाहियते प्रोत्साह्यतेऽनेनेत्युदा- | हरणम् ॥ ४३२७॥
गाथा ४३२२-४३२७ संस्तारकस्वरूपादिः
|१६३३ (B)
For Private And Personal