SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री सूत्रम् भक्तं पानं च दीयते ? उच्यते- गुणवुड्डि समाहि अणुकंपा इति । स भक्तं प्रत्याख्यातुकामोऽनुकम्पनीयः, अनुकम्प्यमानस्य समाधिमरणप्रसक्तेः, ततोऽनुकम्पित आहारे व्यवहार प्रदत्ते सति तस्य समाधिरुपजायते, समाहितश्च प्रज्ञापयितुं शक्यः, प्रज्ञापितश्चाहारव्यवच्छेदं करिष्यतीति, ततोऽभ्युद्यतमरणे गाढं ध्यानोपगतस्य गुणवृद्धिः कर्मनिर्जरा भवति ॥ ४३१२ ।। दशम उद्देशकः अथ चरमाहारद्रव्याणां परिमाणतो द्रव्यतश्च हानिः कथं कर्त्तव्या ? इत्यत आह१६२९ (B)| दविय परिमाणतो वा, हावेंति दिणे दिणे व जा तिन्नि । बेंति न लब्भति दुलभे, सुलभम्मि य होइमा जयणा ॥ ४३१३॥ [जी.भा.४४९] चरमाहारद्रव्याणि द्रव्यसङ्ख्यया परिमाणतश्च दिने दिने तावद् हापयन्ति यावत् त्रीणि N/ दिनानि। तत्र परिमाणतो दिने दिने स्तोकं स्तोकतरमानयन्ति। द्रव्यपरिहानिः पुनरेवम् यदि क्षीरं चरमाहारार्थतया समानीतं ततो द्वितीयदिवसे तन्नाऽऽनयन्ति किन्तु दध्यादिकम्, अथ चरमाहारार्थतया दध्यानीतं ततो द्वितीयदिने क्षीराद्यानयन्ति न तु दधि, एवं द्रव्यपरिहानिस्त्रीन् दिवसान्, ततः परं न किञ्चिदानीयते। तत्र दुर्लभद्रव्यविषये एवं ब्रुवते न - लभ्यते । सुलभे तु द्रव्ये इयं वक्ष्यमाणा यतना भवति ॥ ४३१३ ।। गाथा ४३०८-४३१३ आहारस्तोकतादिः |१६२९ (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy