________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
18
श्री व्यवहार
सूत्रम् दशम उद्देशकः
तृतीयो भक्तप्रत्याख्याता। तत्रायं च विधि:- एकस्य गीतार्थस्य भक्त-पानमार्गणाय गमनम् द्वितीयेन च तृतीये तृतीयस्य भक्तप्रत्याख्यातुः अशून्यकरणम् एकः तत्पार्श्वे तिष्ठति अपरो भक्त-पानमार्गणाय गच्छतीति भावः ॥ ४३०३ ॥ ___ गतं निर्यापकद्वारम् १५ । अधुना ‘दव्वदायणा चरिमे' [गा.४२०९] इत्यस्य द्वारस्य व्याख्यानार्थमाह
तस्स य चरिमाहारो, इट्ठो दायव्वो तण्हछेयट्ठा। सव्वस्स चरमकाले, अतीव तण्हा समुप्पज्जे ॥ ४३०४॥
[जी.भा.४३८]
१६२६ (B)
गाथा ४४३०२-४३०७
चरिमाहारस्वरूपादिः
भक्तप्रत्याख्यायकस्य सर्वस्यापि चरमकाले अतीव तृष्णा आहारकाङ्क्षा समुत्पद्यते तेन तस्य भक्तप्रत्याख्यातुकामस्य तृष्णाछेदार्थम् आकाङ्क्षाव्यवच्छेदाय इष्टश्चरमाहारो दातव्यः ॥ ४३०४॥
कीदृशः? इत्याह
|१६२६ (B)
For Private And Personal