________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
.
व्यवहारसूत्रम् दशम उद्देशकः
१६२४ (A)
गतमप्रशस्तस्थानद्वारम१३। अधना प्रशस्तवसतिद्वारमाहइंदियपडिसंचारो, मणसंखोभकरणं जहिं नत्थि । चाउस्सालादि दुवे, अणुण्णवेऊण ठायंति॥ ४२९६॥
[जी.भा.४२९,नि.भा.३८७८] यत्र इन्द्रियप्रतिसञ्चारो न भवति। किमुक्तं भवति? यत्र इष्टा अनिष्टा वा शब्दा न श्रूयन्ते, नापीष्टानिष्टानि रूपाणि, एवं गन्धादिष्वपि भावनीयम्। मनःसंक्षोभकारणं च यत्र नास्ति तत्र चतुःशालादिके द्वे वसती अनुज्ञाप्य प्रतिग्राह्ये। आदिशब्दात् त्रिशालद्विशालादिपरिग्रहः । वसतिद्वयं च गृहीत्वा एकत्र भक्तप्रत्याख्याता स्थाप्यते, अपरत्र शेषा गच्छसाधवः । किं कारणम् इति चेद् ? उच्यते-अशनादीनां गन्धेन भक्तप्रत्याख्यातुरभिलाषो मा भूदिति हेतोः ॥ ४२९६ ॥ पाणगजोग्गाहारं, ठवेंति से तत्थ जत्थ न उवेंति । अपरिणया वा सो वा, अप्पच्चय-गहिरक्खट्ठा ॥ ४२९७॥
[जी.भा.४३०,नि.भा.३८८०]
गाथा ४२९६-४३०१ वसतिद्वारम्
४१६२४ (A)
For Private And Personal