________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार-1
सूत्रम्
दशम उद्देशकः
१६२३ (A)
सुराविक्रयकारिणो मद्यपा वा, तेषां शालायां तच्छालासमीपे वा, यतस्तत्र मत्तप्रमत्ता गायन्ति पुत्कुर्वन्ति ततो ध्यानव्याघातसम्भवः १७। तथा क्रकचके यत्र काष्ठानि क्रकच्यन्ते क्रकचकसमीपे वा, काष्ठक्रकचनशब्दश्रवणतः कारपत्रिकगानशब्दश्रवणतो ध्यानभ्रंशोपपत्तेः १८। पुप्फ-फल-दगसमीवम्मि त्ति पुष्पसमीपे फलसमीपे उदकसमीपे वा, पुष्पादिदर्शनतः तद्विषयाभिलाषोपपत्तेः १९ । २० । २१ । तथा आरामे, तत्राप्यनन्तरोदितदोषप्रसङ्गात् २२ । तथा विकटं नाम असङ्गुप्तद्वारं तत्र पानकापाने कायिक्यादिपरिष्ठापने च सागारिकसम्भवात् २३ । तथा नागगृहे, उपलक्षणमेतत्, यक्षगृहादिषु च, तत्रापि भूयसां लोकानां नानाविधविकुर्वितवेषाणामागत्याऽऽगत्य गान-नर्तनकरणात्, तथा च सति ध्याने व्याघातसम्भवः । यदि वा नागादयोऽनुकम्पया प्रत्यनीकतया विमर्शेन वा अनुलोमान् प्रतिलोमान् वा उपसर्गान् कुर्युः २४। पूर्वभणिते च प्राक् कल्पाध्ययनाभिधे(हिते) च भक्तं प्रत्याख्यातुकामेन न स्थातव्यम् ॥ ४२९२॥ ४२९३ ॥
गाथा ४२९२-४२९५ | ध्यानव्याघातः
|१६२३ (A)
एतदेव भावयति
For Private And Personal