________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्री
व्यवहार
सूत्रम्
दशम
उद्देश :
हस्तिशालासमीपे तुरङ्गमशालायां तुरङ्गमशालासमीपे वा, हस्तिकादिविरूपशब्दश्रवणतो ध्यानव्याघातभावात् ३ । ४ । तथा चक्रशालायां चक्रशालासमीपे वा तिलपीडनशालायां तिलपीडनशालासमीपे वा जंतत्ति इक्षुयन्त्रशालायामिक्षुपीडनशालासमीपे वा, तिलादिदर्शनतः कर्मकरगानशब्दश्रवणतो वा ध्यानभङ्गोपपत्तेः । ५ । ६ । अग्निकर्म लोहकारकर्म तच्छालायामग्निकर्मशालासमीपे वा, परुष: कुम्भकारः, कुम्भकारशालायां कुम्भकारशालासमीपे १६२२ (B) वा, अग्निपरितापतो लोहकुट्टनादिशब्दश्रवणतो वा ध्यानव्याघातसम्भवात् । ७ । ८ । तथा * नन्तिक्काः छिम्पास्तच्छालायां तच्छालासमीपे वा, रजकशालायां रजकशालासमीपे वा, * देवडशालायां देवडशालासमीपे वा, जुगुप्सादोषात् । ९ । १० । ११ । डोम्बः लङ्खकास्तेऽपि
गायन्ति, अथवा चण्डालविशेषगायनाः डोम्बा:, तेषां शालायां तच्छालासमीपे वा, जुगुप्सादोषाद् गानशब्दश्रवणतो ध्यानव्याघातभावाच्च १२ । तथा [ पाडहिकशालायां ] पाडहिकशालासमीपे वा, वादित्रश्रवणतो ध्यानव्याघातः १३ । राजपथे राजपथसमीपे वा, राज्ञ आगच्छतो समृद्धिदर्शनतो निदानकरणप्रसक्तेः १४ । तथा चारकः गुप्तिगृहं तत्र तस्य समीपे वा, यातनाशब्दश्रवणतो ध्यानव्याघातभावात् १५ । कोष्ठको नाम चट्टानां शाला, कोष्ठके कोष्ठसमीपे वा, चट्टा अपि हि गायन्ति विरूपरूपाणि च भाषन्ते ततो ध्यानव्याघातः १६ । तथा कल्पपालाः
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal
गाथा
| ४२९२-४२९५ ध्यानव्याघातः
| १६२२ (B)