________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् दशम उद्देशकः
१६२२ (A)|
तस्य भक्तं प्रत्याख्यातुर्यत् प्रशस्तं योग्यं स्थानं तत् कीदृशं भवति? सूरिराह-भण्यते, यत्र तस्य कृतभक्तप्रत्याख्यानस्य ध्यानव्याघातो न भवति ॥ ४२९१ ॥ तत्र येषु तस्य ध्यानव्याघातो भवति तान्युपदर्शयतिगंधव्व१ नट्टर जड्ड३ऽस्स४चक्करजंत६ऽग्गिकम्म७फरुसेट्य। नंतिक्कररयग१०देवड११डोंब१२पाडहिग१३रायपहे१४॥ ४२९२॥ चारग१५कोट्ठग१६कल्लाल१७करकए१८पुष्फ१९फल२०दग२१समीवम्मि। आरामे२२अह वियडे२३नागघरे२४पुव्वभणिए य॥ ४२९३॥
[जी.भा.४२५-६,नि.भा.३८७५-६] | गन्धर्वशालायां यत्र गान्धर्विकाः सङ्गीतं कुर्वन्ति शिक्षयन्ति च, तत्र गन्धर्वशालासमीपे वा न स्थातव्यम्, ध्यानव्याघातभावाद् निदानं कुर्यात् १। तथा नृत्यशालायां नृत्यशालासमीपे वा, तत्राऽप्युक्तदोषसम्भवात् २। तथा जड्डः हस्ती, अश्वः तुरङ्गमः, हस्तिशालायां
गाथा
|४२९२-४२९५ ध्यानव्याघात:
१६२२ (A)
For Private And Personal