________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
व्यवहार-14 सूत्रम् दशम उद्देशकः
१६१९ (A)
सति 'निःशल्यीभूतोऽहम्' इति तुष्टिरुपजायते ९ तथा अनालोचिते अतीचारे 'सशल्योऽहम्' इति या मनस्यधृतिरुपजायते तया शरीरं दह्यते, तत आलोचनायां प्रदत्तायामधृतिपरिदाहापगमात् प्रह्लादजननं प्रह्लादोत्पादतः शीतीभवनं भवति १० ॥ ४२८१ ॥
कः पुनः सोऽतिचार: ? कुतो वा प्रभृत्यालोचयितव्यम् ? अत आहपव्वजादी आलोयणा उ तिण्हं चउक्कग विसोही । जह अप्पणो तह परे, कायव्वा उत्तमट्ठम्मि ॥ ४२८२॥
[जी.भा.४१४,नि.भा.३८६६] त्रयाणां ज्ञान-दर्शन-चारित्राणाम् अतीचारेषु प्रव्रज्यादेरारभ्य यावदुत्तमार्थाभ्युपगमस्तावदालोचना दातव्या। कथम्? इत्याह चतुष्कविशोध्या एकैकस्मिन् द्रव्यत: क्षेत्रतः कालतो भावतश्चातीचारविशुद्धया । पुनः कथम्? इत्याह- यथाऽऽत्मनः सम्यग्ज्ञेयतया तिष्ठति, तथा परस्मिन् आलोचना कर्त्तव्या, देशतः सर्वतो न किञ्चिदपि गृहयितव्यमिति भावः, उत्तमार्थे उत्तमार्थप्रतिपत्तौ कर्त्तव्यतायाम् ॥ ४२८२ ॥
गाथा ४२७९-४२८४ आलोचना
१६१९ (A)
For Private And Personal