________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
दशम उद्देशकः
१६१८ (B)
उत्पन्ना उत्पन्ना माया अनुमार्गतः पृष्ठतो लग्नेन आलोचन-निन्दन-गर्हणैः निहन्तव्या। कथम्? इत्याह-न पुनरेवं द्वितीयं वारं करिष्यामीति प्रतिपत्त्या ॥ ४२८० ॥ सम्प्रत्यालोचनायां दत्तायां ये गुणा भवन्ति तानुपदर्शयति -
आयाररविणयगुण२ कप्पदीवणा३ अत्तसोहि४ उजुभावो५ । अज्जवक्ष्मद्दवलाघवतुट्ठी९ पल्हायजणणं १० च ॥ ४२८१॥
[जी.भा.४१३,नि.भा.३८६५] आलोचनायां दत्तायामाचारः पञ्चविध आसेवितो भवति १। विनयगुणश्च प्रवर्त्तितो भवति २। कल्पदीपना नाम अवश्यमालोचयितव्यो अतीचारः इत्यस्य कल्पस्य प्रकाशनम् अन्येषामुपदर्शनम् ततस्तेऽप्यन्ये एवं कुर्वन्ति ३ तथा आत्मनो विशोधिनि:शल्यता कृता भवति ४। तथा ऋजुः संयमस्तस्य भावो भवनं तत्कृतं भवति ५। तथा आर्जवम् अमायत्वम् | ६, मार्दवम् अमानत्वम् ७, लाघवम् अलोभत्वम्८, एतानि कृतानि भवन्ति । तथा आलोचिते |
गाथा ४२७९-४२८४ आलोचना
१६१८ (B)
For Private And Personal