________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् दशम
उद्देशकः १६१३ (B)|
दिपरितापना असमाधिमरणादिकं तत् सर्वं तन्निमित्तम् । अतो गच्छस्य पृच्छा कर्त्तव्या॥४२६४ ॥
गतमनापृच्छाद्वारम् १० । अधुना ‘परीक्षाद्वारमाह'अपरिच्छणम्मि गुरुगा, दोण्ह वि अन्नोन्नयं जहाकमसो । होइ विराधण दुविहा, एक्को एक्को व जं पावे॥ ४२६५॥ [जी.भा.३९२]
यो भक्तं प्रत्याख्यातुकामस्तेन गच्छसाधवः परीक्षितव्याः- किमेते भाविता उत न ? | इति गच्छसाधुभिरपि स परीक्षापणीयः- किमेष निस्तारको भवेत् ? किं वा न ? इति। आचार्येणापि स परीक्षितव्यः । अन्योन्यं पुनः यथाक्रमशः वक्ष्यमाणक्रमेणापरीक्षणे द्वयोरपि | गच्छस्य भक्तं प्रत्याख्यातुकामस्य च प्रायश्चित्तं चत्वारो गुरुकाः। तथा अपरीक्षणे भवति द्विधा विराधना आत्मविराधना संयमविराधना च। तत्र गच्छस्याऽऽत्मविराधना असमाधिमरणतः प्रत्यवायसम्भवात् , भक्तप्रत्याख्यातुरात्मविराधना असमाध्युत्पादात्। संयमविराधना गच्छस्याभावितत्वेन एषणाया असम्भवात्। एक्को एक्को व जं पावे एकः गच्छो यमनर्थं प्राप्नोति एको वा स भक्तप्रत्याख्याता तन्निमित्तमपि तस्य प्रायश्चित्तमापद्यते ॥ ४२६५ ॥
गाथा ४२६१-४२६५ अनापच्छापरीक्षाद्वारे
XM
|१६१३ (B)
For Private And Personal