________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहारसूत्रम् दशम उद्देशकः
१६१४ (A)
तम्हा परिच्छणं तू, दव्वे भावे य होइ दोण्हं पि । संलेह पुच्छ दायण, दिद्रुतो अमच्च-कोंकणए ॥ ४२६६॥
[तुला-नि.भा.३८५२] | यत एवमपरीक्षणे प्रायश्चित्तं दोषाश्च तस्माद् द्वयोरपि परस्परं द्रव्ये भावे च भवति परीक्षणम्। तच्चैवम्- भक्तं प्रत्याख्यातुकामेन परीक्षानिमित्तं गच्छसाधवो भणिताः, यथा'आनयत मम योग्यं कलमशालिकूरम् क्वथितं च क्षीरम्, ततो भोक्ष्ये अथवा अन्य भोजनं प्रणीतं यत् स्वभावतो रुचिकरं तद् आनयतेति' याचते । तत्रैवं याचिते यदि हसन्ति कृष्णमुखा वा जायन्ते तदा ज्ञातव्यम् 'अभाविता एते' इति तेषां समीपे न प्रत्याख्यातव्यम्। अथ ते ब्रुवते- 'यद् भणसि तत् कुर्म' इति, तदा ज्ञातव्यम्-योग्या एते इति । तत्र गच्छसाधुभिः परीक्षानिमित्तं कलमशालिकूरप्रभृतिकमुत्कृष्टं द्रव्यमानीतम् , तस्मिन्नानीते यदि स ब्रूते'अहो! सुन्दरमानीतम् , भुञ्जेऽहमिति', तदा ज्ञातव्यम्-एष आहारलुब्ध इति न निस्तरिष्यति, वक्तव्यश्च सः- 'यदा त्वमाहारगृद्धिं त्यजसि तदा ते भक्तपरिज्ञायां योग्यता भविष्यति, नान्यदा'। अथ स तमुपनीतमाहारं जुगुप्सते- 'किं ममैतेनाऽऽहारितेन? पर्याप्तम् , नाहमाहारयामीति', तदा ज्ञातव्यम् – एष निस्तरिष्यति, तस्मिन् वक्तव्यम् –'प्रत्याख्याहि, वयं ते निर्यापका'
गाथा ४२६६-४२७०
परीक्षा
४|१६१४ (A)
For Private And Personal