________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देश :
१६१० (A)
www.kobatirth.org
परतो सयं व नच्चा, पारगमिच्छंति अपारगे गुरुगा । असती खेम - सुभिक्खे, निव्वाघातेण पडिवत्ती ॥ ४२५६ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal
[ जी. भा. ३७३, नि. भा. ३८४४]
भक्तं प्रत्याख्यातुकामः कोऽपि समागतः, तत आचार्येणाऽऽभोगः कर्त्तव्यः - यावदेतस्य भक्तप्रत्याख्यानं समाप्तिमुपयाति तावदशिवाद्युपद्रवो नगरादीनां चोत्थानं भविष्यति ? किंवा न ? इति । तच्च कथं ज्ञातव्यम् ? उच्यते - स्वयं आचार्यस्यातिशयोऽस्ति तेन ज्ञातव्यम्, यदि वा निमित्तमाभोगनीयम्, अथवा स्वयं देवता कथयति, यथा- "कंचण' [गा. ४५२] इत्यादि । अथ स्वतोऽतिशयो निमित्तं वा नास्ति तर्हि येषां ते स्तस्ते प्रष्टव्याः । एवं स्वतः परतो वा अशिवादीनां नगरोत्थानादीनां वा भावमवबुध्य पुनरिदं ज्ञातव्यम् - किमेष प्रत्याख्यानस्य पारगो भविष्यति ? किंवा न ? इति । तत्र यदि पारग इति ज्ञायते ततस्तं पारगमिच्छन्ति । अथापारगः, नेच्छन्ति । तथा अपारगे इष्यमाणे प्रायश्चित्तं चत्वारो गुरुकाः । अथ स्वस्य परस्य वाऽतिशयादिर्न विद्यते ततः असति अविद्यमाने आभोगे यदि क्षेमं सुभिक्षं तदा निर्व्याघातेन प्रतिपत्तिः कारयितव्या वर्षारात्रे प्रतिपत्तिः कार्यत इत्यर्थः ॥ ४२५६ ॥
गाथा
४२५६-४२६० आभोगद्वारम्
१६१० (A)