SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १६०९ (B) शैक्षकोऽपरिणतो वा मुक्तः, तस्य समीपे तेन ओहासण इति भक्तं याचितम् , ते च शैक्षकादयो 'न कल्पते एतस्य भक्तम्, कृतप्रत्याख्यानत्वाद्' इति न ददति। अदाने च सोऽसमाधिना मरणं प्राप्नुयादिति स परित्यक्तः। ते च शैक्षा दत्त्वा अदत्त्वा वा निर्द्धर्माणो भवन्ति । तथाहि तेषामेवं चित्तमुपजायते, यथा-स्थापनामात्रं प्रत्याख्यानम्, यथा चैतदेवम्, एवं हिंसादिप्रत्याख्यानान्यपि, ततः कल्पन्ते हिंसादयोऽपि इति निर्द्धर्माणो जायन्ते ॥ ४२५४॥ कूयइ अदिजमाणे, मारेंति बल त्ति पवयणं चत्तं । सेहा य जं पडिगया, जणे अवण्णं पयासंति॥ ४२५५ ।। दारं ७॥ _[जी.भा.३८०,नि.भा.३८४३] तैः शैक्षकैरदीयमाने भक्ते स महता शब्देन कूजति, यथा मामेते बलान्मारयन्ति। 'इति' एवमुक्तेन प्रकारेण प्रवचनं त्यक्तम्, तथा शैक्षा ये प्रतिगताः प्रतिभग्नाः सन्तो जने अवर्णं प्रकाशयन्ति एष उड्डाहः ॥ ४२५५ ॥ गतमेकद्वारम् ७ । 'आभोगनद्वार'माह गाथा ४२४९-४२५५ एकनिर्यापके दोषाः |१६०९ (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy