________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् दशम
उद्देशकः १६०९ (A)
एकस्मिन् निर्यापके संयमविराधना आत्मविराधना च भवति । तथाहि- कृतभक्तप्रत्याख्याननिमित्तं पानकग्रहणायाटन् यदा क्वापि न लभते तदा ‘मा भूत् पश्चाद् ग्लानस्यासमाधिः' इत्याधाकर्मिकमपि पानकं गृह्णीयादिति संयमविराधना। निरन्तरमेकस्य क्लिश्यमानस्याऽऽत्मविराधना, तथा कार्यहानिश्च भवति । तथाहि- मरणसमये समाध्युत्पादनाय सोऽपेक्ष्यते, स च कदाचित् तत्समये पानकादिनिमित्तमन्यत्र गतो भवेत् , तथा च स भक्तप्रत्याख्याता त्यक्तः, शैक्षा अपि च त्यक्ताः, प्रवचनं त्यक्तम्, उड्डाहश्चोपजायते ॥ ४२५३॥
एतद्विभावनार्थमाहतस्सऽट्ठगतोहार्सण, सेहादि अदाणे सो य परिचत्तो। दाउं व अदाउं वा, भवंति सेहा व निद्धम्मा ॥ ४२५४॥
[जी.भा.३७९,नि.भा.३८४२]
गाथा ४२४९-४२५५ | एकनिर्यापके
दोषाः
तस्य प्रत्याख्यातभक्तस्याऽर्थाय पानकादीनां मार्गणाय गतो निर्यापकः,तस्य समीपे
|१६०९ (A)
१. भासण-ला.जी.भा.॥
For Private And Personal