________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम उद्देश :
१५९९ (B)
܀܀
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सितिर्नाम ऊर्ध्वमधो वा गच्छतः सुखोत्तारावतारहेतुः काष्ठादिमयः पन्थाः । सा द्विधाद्रव्ये भावे च । तत्र द्रव्ये सितिः - निः श्रेणिः, सा द्विधा उर्ध्वगमने अधोगमने च । तत्र ययाऽधस्ताद् भूमिगृहादिष्ववतीर्यते सा अधोगमने १ यया तूपरिमाले आरुह्यते सा उर्ध्वगमने २ भावसीतिरपि द्विधा - प्रशस्ता अप्रशस्ता च । तत्र यैर्हेतुभिः संयमस्थानानां संयमकण्डकानां लेश्या परिणाम- विशेषाणां स्थितिविशेषाणां अधस्तात् संयमस्थानेष्वभिगच्छति सा अप्रशस्ता भावसितिः १ । यैः पुनर्हेतुभिस्तेषामेव संयमादिस्थानानामुपरितनेषूपरितनेषु विशेषेष्वध्यारोहति सा प्रशस्ता २ । उच्चोपरितनपदक्रमणं भावसीत्या तावद् द्रष्टव्यं यावत् केवलज्ञानम् । तत्र येषामनुयोग धराणामाचार्याणामेवं द्रव्ये भावे च सितिरुपलब्धा भवति ते न हु नैव उर्ध्वगमने कार्ये कर्त्तव्ये अधस्तनपदं प्रशंसन्ति, नाशुभपदगमनाय अशुभाध्यवसायप्रवृत्तिमातन्वते, किन्तु शुभेष्वध्यवसायेष्वारोहन्ति ॥ ४२१६ ॥ ४२१७ ॥
गतं सितिद्वारम् ३ । 'संलेखनाद्वार 'माह
उक्कोसा य जहन्ना, दुविहा संलेहणा समासेण ।
छम्मासा उ जहन्ना, उक्कोसा बारससमा उ ॥ ४२१८ ॥ [तुला. जी. भा. ३४१]
For Private And Personal
गाथा
| ४२१३ - ४२१८
* निर्व्याघातिममरणविधिः
१५९९ (B)