________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
www.kobatirth.org
किं कारणं स्वगणादपक्रामणं क्रियते ? सूरिराह- स्थविराणां आचार्याणां संलेखनातपोभिः क्लान्तानाम् इह स्वगणे अभ्युद्यते भक्तपरिज्ञालक्षणे मरणे समुपस्थितानां शिष्या आचार्यानुरागेण रोदन - क्रन्दनादीनि कुर्युः । रोदनादिकं च तेषामाकर्ण्य अश्रुप्रपातं च दृष्ट्वा तेषामुपरि कारुण्यमुपजायते । ततो [ ध्यान ] व्याघातः ॥ ४२१२ ॥
दशम
उद्देशकः
१५९८ (A)
Acharya Shri Kailashsagarsuri Gyanmandir
अन्यच्च
सगणे आणाहाणी, अप्पत्तिय होइ एवमादीयं ।
परगणे गुरुकुलवासो, अप्पत्तियवज्जितो होइ ॥ ४२१३ ॥ [ जी.भा.३३५]
यो गणधरः स्थापितस्तस्याऽऽज्ञां केचित् कुर्वन्ति केचिन्न कुर्वन्ति, तथा केषाञ्चिदुपकरणनिमित्तमप्रीतिः, आदिशब्दाद् गणभेदो बालादीनामुचिताद्यकरणदर्शनमित्यादिपरिग्रहः, तत एवं स्वगणे आज्ञाहानिरप्रीतिरित्येवमादिकं ध्यानव्याघातकारणमुपतिष्ठते ततः परगणे गत्वा भक्तप्रत्याख्यानं प्रतिपद्यते, यत एवं गुरुकुलवास आसेवितो भवति । किंविशिष्टः ? इत्याहअप्रीतिवर्जितः अप्रीतिश्च समस्ताऽपि परिहृता भवतीति भावः ॥ ४२१३ ॥
अप्रीत्यादिकं यथा स्वगणे भवति तथा दर्शयति
For Private And Personal
गाथा ४२१३-४२१८ निर्व्याघातिममरणविधिः
१५९८ (A)