SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १५९७ (A) स भक्तप्रत्याख्यानं न प्रतिपादयितव्यः१० । तथा तेन भक्तं प्रत्याख्यातुकामेन गच्छस्य गच्छेनापि तस्य परीक्षा कर्त्तव्या ११॥ तथा भक्तपरिज्ञां प्रतिपत्तुकामेन नियमत आलोचना दातव्या १२ ॥ ४२०८॥ तथा प्रशस्ते स्थाने प्रशस्तायां वसतौ [च] भक्तपरिज्ञा प्रतिपत्तव्या १३-१४। तथा निर्यापका गुणसम्पन्नाः समर्पणीयाः १५ । तथा चरमकाले तस्य भक्तं प्रत्याख्यातुकामस्य द्रव्यदर्शन प्रधानसमस्ताहारद्रव्योपदर्शनं विधेयम् १६ । हाणित्ति भक्तं प्रत्याख्यातुकामस्य प्रतिदिवसमाहारस्य हानिर्विधेया १७ तथा अपरितान्ताः अपरिश्रान्ताः सर्वकर्मणि प्रतिचारका वर्तन्ते१८ । निज्जरत्ति निर्जरा वक्तव्या १९ । तथा संस्तारको यादृशो भवति कृतभक्तप्रत्याख्यानस्य कर्त्तव्यस्तादृशो वक्ष्यते २० । तथा तस्य कृतभक्तप्रत्याख्यानस्योद्वर्त्तनादीनि यथासमाधि करणीयानि २१ । तथा प्रथम-द्वितीयपरीषहाभ्यां जितस्य स्मारयित्वा स्वं स्वरूपं माऽनर्थत्वादिलक्षणं (गीतार्थाऽगीतार्थादित्राणं) कवचं कवचभूतमशनं प्रयोक्तव्यम् २२ । तथा जीवतो मृतस्य च तस्य चिह्नकरणं विधेयम् २३ । एतद् निर्व्याघातेन भक्तपरिज्ञाव्याघाताभावेन प्रतिपत्तव्यम्। 'अथ' अन्तर्ग्रामादिषु बहिः उद्यानादिषु भक्तपरिज्ञाया व्याघातस्सञ्जातस्ततो गीतार्थानामुपायो गाथा ४२०७-४२१२ निर्व्याघातिममरणविधिः |१५९७ (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy