SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailashsagarsuri Gyanmandir . श्री व्यवहार सूत्रम् दशम उद्देशकः १५९० (B) विंशत्याचाम्लकरणाशक्तौ चत्वारिंशतमेकाशनकानि कारयन्ति, तत्राप्यशक्तौ अशीतिं पूर्वार्द्धानि कारयन्ति, तत्राप्यशक्तौ षष्ट्यधिकं शतं निर्विकृतिकानां कारयन्ति। एतत् पञ्चसु कल्याणेष्वेकैकं कल्याणं प्रत्येकमव्यवच्छित्त्या कर्तुम् असहस्य असमर्थस्य दानमुक्तम्। अथवाऽयमन्यो विकल्प:-कारेंति व सन्निगासं तु सन्निकाशं सन्निभं वा कारयन्ति । इयमत्र भावनायत् तत् पञ्चकल्याणकमापन्नं तन्मध्यादाद्यं द्वितीयं तृतीयं वा कल्याणकमेकतरं यथाक्रमेण वहति, शेषमायामाम्लादिभिः प्रवेशयति ॥ ४१८५ ॥ ४१८६ ॥ पुनरन्यथाऽनुग्रहप्रकारमाहचउ-तिग-दुगकल्लाणं, एगं कल्लाणं च कारेंती । जं जो उ तरति तं तस्स, देंति असहुस्स झोसंति ॥ ४१८७॥ [जी.भा.३०६] यदि वा पञ्चकल्याणकमुक्तस्वरूपं यथाक्रमेणाव्यवच्छित्त्या कर्तुमशक्नुवन्तं तं चतुष्कल्याणकं कारयन्ति । तदप्यशक्नुवन्तं विकल्याणकम्, तथाप्यसमर्थतया द्विकल्याणकम्, तदप्यशक्नुवन्त-मेककल्याणकं कारयति । किं बहुना ? यद् यः कर्तुं शक्नोति तस्य तद् ददति, नाधिकम्, आबाधासम्भवात्। अथैकमपि कल्याणकं कर्तुं न शक्नोति तदा तस्याऽसहस्य गाथा ४१८५-४१९० सापेक्षनिरपेक्षयोदृष्टान्ताः |१५९० (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy