________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् दशम
उद्देशकः १५८९ (B)IN
यदि वा ते प्रायश्चित्तभग्ना लिङ्गविवेकं कृत्वा व्रजन्ति ततस्तेन निरवशेषप्रायश्चित्तदात्रा | परित्यक्ताः । यथैवमेके, एवमन्येऽपि, एवमपरेऽपि, ततः सर्वसाधुव्यपगमतस्तीर्थस्योच्छेदः । तथा तेनाऽऽचार्येण निरवशेषं प्रायश्चित्तं साधूनां ददता प्रायश्चित्तभङ्गभयात् साधूनामपगमत आत्मा एकाकीकृतः, एकाकितया च त्यक्तः। चशब्दाद् गच्छोऽपि त्यक्तः। तथाहिसाधूनामपगमे बाल-वृद्ध-ग्लानादीनामुपग्रहे न कोऽपि वर्त्तते ततस्तेऽपि तेन तत्त्वतः परित्यक्ताः । तथा अवधाविताः सन्तो ये दीर्घकालं संसारमाहिण्डिष्यन्ते सोऽपि तन्निमित्त इति तस्य महत् पापम् ॥४१८३॥
तदेवं निरपेक्षस्य दोष उक्तः । सम्प्रति सापेक्षस्य गुणमाहसावेक्खो पवयणम्मी, अणवत्थपसंगवारणाकुसलो । चारित्तरक्खणट्ठा अव्वोच्छित्तीय उ विसुज्झे ॥ ४१८४॥ [जी.भा.३०३] यः पुनराचार्यः प्रवचने सापेक्षोऽनवस्थाप्रसङ्गवारणाकुशलः स चारित्ररक्षणार्थं
गाथा ४१७७-४१८४ सापेक्षप्रायश्चित्तगुणाः
१५८९ (B)
For Private And Personal